|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.171. अध्यायः 171
Mahabharata - Vana Parva - Chapter Topics
पार्थेन निवातकवचैः सह युयुत्सया मातलिसनाथेनेन्द्ररथेन तत्पुरंप्रति गमनम् ॥ 1 ॥ अर्जुनशङ्खध्वनिश्रवणेन सन्नद्धैर्निवातकवचैस्तेन सह युद्धारम्भः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-171-0x(2314)(22527)
ततोऽहं स्तूयमानस्तु तत्रतत्र सुरपिभिः।
अपश्यमुदधिं भीममपांपतिमथाव्ययम् ॥ 3-171-1(22528)
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छिताः।
ऊर्मयश्चात्र दृश्यन्ते चलन्तइव पर्वताः ॥ 3-171-2(22529)
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः।
`नभसीव विमानानि विचरन्त्यो विरेजिरे' ॥ 3-171-3(22530)
तिमिङ्गिलाः कच्छपाश् तथा तिमितिभिङ्गिलाः।
मकराश्चात्र दृश्यन्ते जले मप्रा इवाद्रयः ॥ 3-171-4(22531)
शङ्खानां च महबाणि मग्रान्यप्सु ममन्ततः।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रमंवृताः ॥ 3-171-5(22532)
तथा सहस्रशस्तत्ररत्नसङ्घाः प्लवन्त्युत।
वायुश् घृर्णते भीमस्तदद्भुतमिवाभवत् ॥ 3-171-6(22533)
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्।
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ 3-171-7(22534)
तत्रैव मातलिस्तृणं निपात्य पृथिवीतले।
दानवान्रथघोपेण तन्पुरं समुपाद्रवत् ॥ 3-171-8(22535)
रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन् ॥ 3-171-9(22536)
सर्वे संभ्रान्तमनसः शग्चापधराः स्थिताः।
तथाऽसिशूलपरशुगदामुसलपाणयः ॥ 3-171-10(22537)
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ 3-171-11(22538)
ततः शङ्खमुपादाय देवदत्तं महास्वनम्।
परमां मुदमाश्रित्य प्राधमं तं शनैरहम् ॥ 3-171-12(22539)
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ 3-171-13(22540)
ततो निवातकवचाः सर्व एव समन्ततः।
दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः ॥ 3-171-14(22541)
आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि।
पट्टसैः करवालैश्च रथचक्रैश्च भारत ॥ 3-171-15(22542)
शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ 3-171-16(22543)
ततो विचार्य बहुशो रथमार्गेषु तान्हयान्।
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ 3-171-17(22544)
तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम्।
नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत् ॥ 3-171-18(22545)
ततस्ते दानवास्तत्रयोधवातान्यनेकशः।
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ 3-171-19(22546)
3-171-20(22547)
तेन शब्देन सहसा समुद्रे पर्वतोपमाः।
आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-171-4 तिमिर्मत्स्यस्त गिलति महामतस्यस्तिमिगिलः तमपि गिलतीति तिमितिमिगिलः। तिमिरिव गिलनीयस्तिमिगिलो यस्येति विग्रहः ॥ 3-171-6 घूर्मते भ्रमति ॥ 3-171-13 दिवं स्तब्ध्वा आकाश व्याप्य ॥ 3-171-14 दशिताः सन्नद्धाः। त्राणैः कवचैः ॥ 3-171-19 ततस्तेदानवास्तत्र बादित्राणि सहस्रशः। विकृतस्वररूपाणि भृशं सर्वाण्यनादयन् इति झ. पाठः ॥ 3-171-20 आप्लवन्त पलायने कृतवन्तः। गतैः सत्वैर्विगताभिर्वुद्धिभिरुपलक्षिता भ्रान्ता इत्यर्थः ॥ 3-171-24 तारकामये इति झ. पाठः। तत्र तारकामये तारार्थे संग्रामे इत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|